मिथोऽमीषामीषत् समधिकसमत्वानि विमृशन् कविः कुर्यात् स्रोतोऽनुगुणमनुरागव्यतिकरम्॥ २६६॥
इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते शृङ्गारप्रकाशे अनुरागस्थापनो नाम
निविश्याऽन्तर्धातूनथ विषमतां वीक्ष्य पुरुष— स्त्रियोस्तत्तदभावान्तरगतवपुष्कां सहृदयः।
इमा या वै व्याख्यद् भिद इह कथं कश्चन भवे— न्न मग्नश्चित्राब्धौ निजमबुधतां संपरिहरन्॥
चतुष्षष्टिं पश्यन्नयमिह पदार्थेषु निखिले— ष्ववश्यं धारेशोऽप्यभवदिव तन्मात्रकवयाः।
सरस्वत्यै कण्ठाभरणमवधावत्र च ददौ प्रकाशं कृत्वा यो व्यवृणुत च साहित्यभुवनम्॥