उरपेल्लिअ—वइ—कारिल्लइआइँ उच्चेसि दइअ—वच्छलिए!।
कंटअ—विलिहिअपीणुण्णअ—थणि! उत्तम्म एत्ताहे॥ २६३॥
(उरःप्रेरितवृतिकारवेल्लीफलान्युच्चिनोषि दयितवत्सले!।
कण्टकविलिखितपीनोन्नतस्तनि! उत्ताम्य इदानीम्॥)
द्वादशैवं सहस्राणि साष्टाशीतिशतद्वयी।
भवन्ति कामशृङ्गारे मूलप्रकृतयः पृथक्॥ २६४॥
व्यतिषङ्गादमूषां तु साम्याधिक्याल्पताकृतः।
न पर्यान्तो विकल्पानामेकद्वित्र्यादियोगतः॥ २६५॥
चतुष्षष्टिं पश्याऽसमसमभिलाषप्रभृतिका— नथोऽष्टौ नित्यादीन् पृथगपि चतुर्विंशतिविधान्।