श्रृङ्गारप्रकाशे द्वाविंशः प्रकाशः
इह खलु सकलसत्त्वोपकारक्षमद्वितीयाश्रमनिवासिभिश्चतुर्भिरपि वर्णैर्ब्राह्मणा— दिभिरुभयलोकसिद्धये सेव्यमानो धर्मार्थकामलक्षणस्त्रिवर्णः पुरुषार्थः।
एवमर्थं च कामं च धर्मं चाप्याचरन् नरः।
इहामुत्र च निश्शल्यमत्यन्तसुखमश्नुते॥ १॥
यस्य त्रिवर्गशून्यानि दिनान्यायान्ति यान्ति च।
स लोहकारभस्त्रेव श्वसन्नपि न जीवति॥ २॥