तत्रापि धर्मार्थश्रृङ्गारयोर्हेतुभूतत्वात् कामश्रृङ्गार एव फलभूतत्वात् प्रधानम्। कामस्तु सामान्यरूपो विशेषरूपो वा सुखमेवाभिधीयते, इत्युक्तं १पुरस्तात्, इह तु उपचारात्—
सङ्कल्परमणीयस्य प्रीतिसम्भोगशोभिनः।
कुमारस्या/रुचिरस्याभिलाषस्य नाम काम इति स्मृतम्॥ ३॥
अहेतुः पक्षपातो यस्तस्य नास्ति प्रतिक्रिया।
स हि स्नेहात्मकस्तन्तुरन्तर्भूतानि सीव्यति॥ ४॥
उक्तं च— (उराच. ६.१२, मामा. १.२७)
व्यतिषजति पदार्थानान्तरः कोऽपि हेतु— र्न खलु बहिरुपाधीन् प्रीतयः संश्रयन्ते।
विकसति हि पतङ्गस्योदये पुण्डरीकं द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः॥ ५॥
तं च अनुराग इत्याचक्षते। ततश्च—(उराच. २.१९, ६.५)