भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1 to 10 of 468 verses
अथ

श्रृङ्गारप्रकाशे एकविंशः प्रकाशः

मोक्षश्रृङ्गारप्रकाशः

(मोक्षः)

तत्त्वज्ञानान्निःश्रेयसाधिगमो मोक्षः।

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावात्। तथाहि तत्त्वज्ञानान्मिथ्याज्ञानापाये दोषा अपयान्ति। दोषापाये प्रवृत्तिरपैति। प्रवृत्त्यपाये दुःखमपैति। सेयमात्यन्तिकी दुखप्रहाणिः। तत्त्वज्ञानान्निश्चितश्रेयसः तदुपायात् तु तदधिगमो मोक्ष इति।

दुःखं तु षडिन्द्रियाणि विषया बुद्धयश्चः दुःखहेतुत्वात्। शरीरं दुःखायतनत्वात्। दुःखं तु स्वरूपाऽस्वरूपमिति। भावयतः क्वचिदपि मनस्सङ्गः स्यात्। अनासङ्गाच्चायमपूर्वं नार्जयति। पूर्वार्जितं च इच्छाभोगैः क्षपयति। सर्वकर्मोद‍्भूतानि फलानि च जगद्‍गुरौ महेश्वरे संन्यस्यति प्रत्यवायपरिहारार्थं च नित्यनैमित्तिकानुष्ठानमाद्रियते। उक्तं च,

नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम्।

ज्ञानं च निर्मलीकुर्वन्नभ्यासेन विपाचयेत्॥ १॥

अभ्यासात् पक्वविज्ञावः कैवल्यं लभते नरः।

Showing 1 to 10 of 468 verses