भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 21 to 30 of 468 verses
तत्त्वज्ञाने एकं, द्वे, त्रीणि, चत्वारि, पञ्च, षट्, षोडश च तत्त्वानीति। तत्र—

एकं यथा— 'एकमक्षरमुपासीत' इति (छान्दोग्ये), 'आत्मैवेदं सर्वम्' (बृहदारण्यके), 'सर्वं खल्विदं ब्रह्म' इति (शाण्डिल्यविद्या),'न तु द्वयमस्ति' इति, 'वेदोऽखिलो धर्ममूलम्' इति (मनुस्मृ. २.६)।

द्वे यथा— द्वे वाव ब्रह्मणो रूपे विद्या चाविद्या च, सम्भूतिर्विनाशश्च, (लोलीभावः?)२ पक्वावबोधश्च, सामान्यं विशेषश्च, प्रकृतिः पुरुषश्च इति।

त्रीणि यथा— व्यक्तिराकृतिर्जातिरिति, व्यक्तमव्यक्तं व्यक्ताव्यक्तमिति, हेयमुपादेयमुपेक्षणीयमिति, तत्त्वमात्मा शरीरमिति, ज्ञानं क्रिया दैवतमिति, शिवः शक्तिः पुरुष इति।

१. पुरस्तात्— अष्टादशे प्रकाशे धर्मश्रृङ्गारप्रस्तावे। पृ॰ ९९४। २. अस्मत्कृता पूर्तिरियम्।

चत्वारि यथा— प्रमाणं, प्रमेयं, प्रमाता, प्रमितिरिति। जातिर्गुणः, क्रिया, द्रव्यं (माभा. १.१.३) चेति। वैखरी, मध्यमा, पश्‍यन्ती, सूक्ष्मेति। बहिःप्रज्ञा, अन्तःप्रज्ञा, सुषुप्‍तं, तुरीयमिति। पिण्डः, पदं, रूपं, रूपातीतमिति। तत्त्वं, भावो, भूतं, संवननमिति। दीक्षा, ज्ञानं, क्रिया, चर्येति। योगः, साधनं, विभूतिः, कैवल्यमिति। पृथिव्यापस्तेजो वायुरिति।

पञ्च यथा— पृथिव्यापस्तेजो वायुराकाशमिति। प्रकृतिः, पुरुषो, मात्रा, शक्तिः, शिव इति। पञ्चब्रह्मार्थपरिज्ञानमिति। जाग्रत्, स्वप्नं, सुषुप्‍तं, तुर्यं, तुर्यातीतमिति। रूपं, वेदना, संज्ञा, संस्कारो, विज्ञानमिति।

षड् यथा— ब्रह्म खानिलतेजांसि जलं भूरिति। द्रव्यं, गुणाः कर्म, सामान्यं विशेषाः, समवाय इति। तत्त्वानि, पदानि, भुवनानि, वर्णा, मन्त्राः, काला इति। गुणा, गहनं, ग्रन्थिः, मूलं, शक्तिः, शिव इति। मूलजालमधिमोक्तृचेतना ज्ञानमेतदधिनायकाः (द्र. पृ. ४०३)१, 'शक्तयः शक्तिनायकाः' इति। पाशाः पशवो विद्या विद्येश्वराः शक्तिः शिव इति। जीवाः पु्द्गलाः काल आकाशो धर्मोऽधर्म इति।

षोडश यथा— प्रमाणानि, प्रमेयः, संशयः, प्रयोजनं, दृष्टान्तः, सिद्धान्तः, अवयवाः, (तर्कः) निर्णयः, वादः, जल्पो, वितण्डा, हेत्वाभासाः, छलं जातयः, निग्रहस्थानानानीति॥

अथ निःश्रेयसे—