भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 41 to 50 of 468 verses
१०. 'साऽक्रमेण निःश्रेणिक्रमेण वा शिवपदावाप्‍तौ शिवसमानता' इति,

११. 'क्रियायोगान्महेश्वरगुणसश्रङ्क्रान्तिः' इति,

१२. 'अविद्योच्छेदाद् विद्याप्रकाशः' इति,

१३. 'समलचित्तविनाशैर्निर्मलचित्तोत्पादः' इति,

१४. 'सम्यक्सन्दर्शनज्ञानचारित्रैः कृत्स्नकर्मप्रमोक्षः' इति,

१५. 'जलबुद्‌बुदवज्जीवाः मदशक्तिवद् विज्ञानम्' इति,

१६. 'ज्ञानमिति ज्ञानात् प्रेत्यापुनर्भा(र्भ)वः' इति।

(मोक्षश्रृङ्गारः)

तदेतदुभयमप्युपायनमन्तरेण न प्राप्यत इत्युपायप्रदर्शकं शास्त्रं, शास्त्रस्य पुरुषश्रेयोऽभिधायकत्वात्। पुरुषस्य च शास्त्रोक्तैरुपायैस्तत्त्वज्ञानादिभिर्निःश्रेय— समीहमानस्य गार्हस्थ्येऽपि तदधिगतताभिमानो मोक्षश्रृङ्गारः। तथापि — अस्ति मे मोक्षाधिगमे योग्यता, अधीतानि मया मोक्षशास्त्राणि, निरन्तरा निवर्तकधर्मोत्पत्तिहेतवः क्रियाकलापाः, न पी/वीयते१ नित्यनैमित्तिकानि, प्रसीदन्ति चित्तवृत्तयः, प्राप्‍तो निरालम्बनः सालम्बनो वा योगः, स्वाधीनानि योगसाधनानि, स्थिरो हि बीजः निर्बीजः सबीजो वा समाधिलाभः, निवर्तन्ते योगविघ्नाः, प्रकाशते प्रत्यग्ज्योतिः, उन्मीलयन्ति तत्त्वसंवित्तयः प्रत्यासीदन्ति ज्योतिष्मत्यादयो योगावस्थाः, प्रादुर्भवन्ति च समस्ता योगर्द्धयः'— इत्यादियोग्यचेतसोऽभिमानः, स मोक्षश्रृङ्गारः इत्युच्यते। तन्निवृत्तौ च अस्याहङ्कारविरहान्मोक्ष एवेति, यावदहङ्कारवांस्तावदयं मोक्षश्रृङ्गारी, विरहिताहङ्कारस्तु मुक्त एवेति। यथा—

त्वामात्मानं वरद! परमानन्दबोधस्वरूपं ये बुध्यन्ते विगलितजगद्भेदमायाप्रपञ्चम्/ञ्चाः।

Showing 41 to 50 of 468 verses