भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 51 to 60 of 468 verses
रागत्यागस्तिमितमनसो देव! जीवन्त एव त्रुट्यन्मायाविकटनिबिडग्रन्थयस्ते विमुक्ताः॥ ५॥

यथा च—

१. वीयते = वि + ईयते = नापगच्छन्ति।

मयि जीवत्यहङ्कारे पुरुषः पञ्चविंशकः।

तत्त्वज्ञानोपपन्नोऽपि न मोक्षं गन्तुमर्हति॥ ६॥

तत्र सात्त्वती वृत्तिः, आवन्त्या प्रवृत्तिः, लाटीया रीतिः, स्वकीया नायिका, धीरप्रशान्तश्च नायक इति। तेषु—

सात्त्वती व़ृत्तिस्तदनुरूपस्वरूपाङ्गत्वात्; तथाहि—(नाशा. २०.३६)

या सात्त्वतेनेह गुणेन युक्ता त्यागेन वृत्तेन समन्विता च।

हर्षोत्कटा संहृतशोकभावा सा सात्त्वती सत्त्ववतीहा वृत्तिः॥ ७॥

तदङ्गानि उत्थापकः, परिवर्तकः, संलापकः, सङ्घात्यक इति। सा तु 'या सात्त्वतेनेह गुणेन युक्ता' इत्यनेन सत्त्वतः = सत्कारवतो धीरप्रशान्तादेर्नायकस्य मोक्षश्रृङ्गाराधिकारिणो ये गुणास्तदुपलक्षितां चेष्टामाचष्टे। सत्त्ववन्तो हि सत्कारवन्तो मोक्षश्रृङ्गाराधिकारिण एवोच्यन्ते।

Showing 51 to 60 of 468 verses