रागत्यागस्तिमितमनसो देव! जीवन्त एव त्रुट्यन्मायाविकटनिबिडग्रन्थयस्ते विमुक्ताः॥ ५॥
१. वीयते = वि + ईयते = नापगच्छन्ति।
मयि जीवत्यहङ्कारे पुरुषः पञ्चविंशकः।
तत्त्वज्ञानोपपन्नोऽपि न मोक्षं गन्तुमर्हति॥ ६॥
तत्र सात्त्वती वृत्तिः, आवन्त्या प्रवृत्तिः, लाटीया रीतिः, स्वकीया नायिका, धीरप्रशान्तश्च नायक इति। तेषु—
सात्त्वती व़ृत्तिस्तदनुरूपस्वरूपाङ्गत्वात्; तथाहि—(नाशा. २०.३६)
या सात्त्वतेनेह गुणेन युक्ता त्यागेन वृत्तेन समन्विता च।
हर्षोत्कटा संहृतशोकभावा सा सात्त्वती सत्त्ववतीहा वृत्तिः॥ ७॥
तदङ्गानि उत्थापकः, परिवर्तकः, संलापकः, सङ्घात्यक इति। सा तु 'या सात्त्वतेनेह गुणेन युक्ता' इत्यनेन सत्त्वतः = सत्कारवतो धीरप्रशान्तादेर्नायकस्य मोक्षश्रृङ्गाराधिकारिणो ये गुणास्तदुपलक्षितां चेष्टामाचष्टे। सत्त्ववन्तो हि सत्कारवन्तो मोक्षश्रृङ्गाराधिकारिण एवोच्यन्ते।