अलब्धलाभार्थम् आवाप उपायः। स 'कन्यासंप्रयुक्त—भार्याधिकारिक— पारदारिक—वैशेषिकेषु चरणाद् विधानम्' इत्यादिभिरुपदिष्टः (कासू. १.१.१०)। लब्धपरिरक्षणार्थं तु तन्त्रम्, तत् सांप्रयोगिके 'प्रमाणभावकालेभ्यो रतावस्थापनम् (कासू.जयमङ्गला २.१.१)' इत्यादिभिः प्रकाशितम्। औपनिषदिकं तु तन्त्रावापाभ्यामसिद्धेऽर्थे व्याप्रियते; तदिह नेष्टम्, अभिमानाभावात्।
अङ्गसंप्रयोगस्तु सामान्यकामस्यापि निमित्तम् (कासू. जयमङ्गला १.२.१८)।
सोऽपि द्विरूपः — समाहरणलक्षण उपभोगलक्षणश्च। तत्र लब्धलाभार्थः समाहरणलक्षणः। स उपायापेक्षायां साधारणाधिकरणोक्तं नित्यनैमित्तिकानुष्ठानमपेक्षते, 'स प्रातरुत्थाय कृतनियतकृत्यः' (कासू. १.४.५) इत्यादि। सोऽयमुभयरूपोऽपि कामः संप्रयोगपराधीनत्वादुपायापेक्षी। उपायप्रमापकं तु कामसूत्रम्।
तत्र सामान्यविशेषकामार्थिनो धीरललितादेर्नायकस्य तदनुकूलायां प्रवृत्तौ तदुपायानतिक्रमेणैतदनुभवाभिमानः कामशृङ्गारः। तत्र—
कैशिकी वृत्तिः, (पौरस्त्या प्रवृत्तिः), र्वैदर्भी रीतिः सर्वा नायिका धीरललितश्च नायक इति। तेषु—
कैशिकी वृत्तिस्तदनुरूपस्वरूपाङ्गत्वात्। तथाहि शृङ्गारप्राया कैशिकी। यथोच्यते—
या श्लक्ष्णनैपथ्यविशेषचित्रा स्त्रीपुंसयुक्ता बहुगीतनृत्ता।
कामोपचारप्रभवोपयोग्या/ भोगप्रभवप्रचारा तां कैशिकीं वृत्तिमुदाहरन्ति॥ ९॥