तस्य कार्यहेतोः स्वरूपविज्ञानादिप्रच्छादनं नर्मगर्भ इति। (नाशा.२०.५१)
दाक्षिणात्या प्रवृत्तिः; शृङ्गारोपयोगिविदग्धादृतमहार्हविलेपाभरणपेशलविशेष— योगित्वात्। यथा—(रघु. ६.६०)
पाण्ड्योऽयमंसार्पितलम्बहारः क्लृप्ताङ्गरागो हरिचन्दनेन।
आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः॥ १०॥
वैदर्भी रीतिः; शृङ्गारानुरूपसंदर्भत्वात्। यतो यदसमस्तमतिसुकुमार— बन्धमनुपचारवृत्तिमत् स्थानानुप्रासयोगि योगवृत्तिगर्भं वचः सा वैदर्भी।
असमस्तमित्यनेन सुखबोधनत्वात् विलासिनीचित्तमावर्जयति।
अतिसुकुमारबन्धमित्यनेन श्रुतिरमणीयतां कथयति।
अनुपचारवृत्तिमदित्यनेन (सुखावबोध्यतां ब्रुते)।
स्थानानुप्रासयोगीत्यनेन सुखोदाहरणीयतामाह।
योगवृत्तिगर्भमित्यनेन ग्राम्यतां प्रत्याचष्टे। तच्च सर्वनाटकाख्यायिकादिषु सप्रबन्धेषु प्रायो दृश्यत इति साऽपि धर्मशृङ्गारङ्गम्॥