भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 71 to 80 of 638 verses
उपायतः प्रवृत्तौ तदवाप्त्यभिमानोऽर्थश्रृङ्गारः; यथा—(मवीच. १.३०)

कन्यारत्नमयोनिजन्म भवतामास्ते; वयं चार्थिनो रत्नं यत् क्वचिदस्ति तत् परिणमत्यस्मासु शक्रादपि।

कन्यायाश्च परार्थतैव हि मता; तस्याः प्रदानादहं बन्धुर्वो भविता; पुलस्त्यपुलहप्रष्ठाश्च संबन्धिनः॥ १३॥

आरभटी वृत्तिः, अनु(उ)ढ्रमागधी प्रवृत्तिः, गौडीया रीतिः, सर्वा नायिकाः, धीरोद्धतो नायक इति। तत्र—

आरभटी वृत्तिरर्थार्जनानुरूपाङ्गत्वात्। तथाहि आविद्धगतिरारभटी; यतः— (नाशा. २०.६५)

पुस्तावपातप्लुतलङ्घितानि छेद्यानि मायाकृतमिन्द्रजालम्।

चित्राणि युद्धानि च यत्र वृत्तिं/नित्यं तां तादृशीमारभटीं वदन्ति॥ १४॥

संक्षिप्‍तकः, अवपातः, वस्तूत्थापनं, संफेट इति तदङ्गानि।

आविद्धगतिरारभटीत्यनेनार्थश्रृङ्गारे धीरोद्धतव्यापारं नियमयति।

पुस्तावपाताभ्यां स्वसैन्यदुर्गादिरक्षामुपलक्षयति। विचित्राणां हि शिलामृद्विदलदारुचर्म—(श)ण?) सूत्रायोमयसन्नहता/स्त्रंशस्त्रादीनां पुस्तसंज्ञा१, परिखाकूपवृधावितिकादीनां चाऽवपातसंज्ञेति।

Showing 71 to 80 of 638 verses