भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 81 to 90 of 638 verses
प्लुतलङ्घिताभ्यां परदुर्गोपरोधेषु तदभियोगचेष्टामाचष्टे। प्लुतैर्हि प्राकारादयो विलङ्घयन्ते। लङ्घनैश्च प्राकारादय इति।

छेद्यानि। 'कूटयुद्धचतुर्विंशतिश्चित्रयुद्धानि' इति ब्रुवते।

१. नाट्यशास्त्रे २१ अध्याये पुस्तविधानं सविस्तरं दर्शितम् द्र. २१.५–२११ पर्यन्तम्।

मायाकृतमिन्द्रजालमिति। (अनेन?) एभ्यः स्वसैन्यप्रोत्साहनपरबलस्तम्भनादिभिः कार्यसिद्धयेऽवस्कन्दकालन् सूचयति। . . . . . . . . . .

संक्षिप्‍तकेन मायादिभिः परात्र(स्त्र?)संधानादनायाससिद्ध(द्धिं) कार्यशरीरस्य ब्रूते। अवपातेनाकस्मिकेषु भयाद्युपनिपातेषु तदपसर्पणोपसर्पणाप्रकारं प्रकटयति।

वस्तूत्थापनेन स्वास्थ्यास्वास्थ्ययोर्विरुद्धकार्योपनिपाते मन्त्रचिन्तामाद्रियते।

संफेटेन बुद्ध(युद्ध?)—कालेऽवश्योच्छेद्यारिनिग्रहं प्रतिपादयति, तल्लक्षणानां तथाविधार्थयोगात्। तथाहि—

१. मायेन्द्रजालशिल्पनेपथ्यादिभिः कार्यवस्तुसंक्षेपः संक्षिप्‍तकः।

२. भयादिभिः विद्रवादिकर्मसु प्रवेशनिर्गमोऽवपातः।

३. अविद्रवः सविद्रवो वा सर्वरसभावसमासो वस्तूत्थापनम्।

Showing 81 to 90 of 638 verses