१. अभ्युदयादिभिरुत्सेको यथा—(रघु. ७.६७)
इतः परानर्भकहार्यशस्त्रान् वैदर्भि! पश्यानुमता मयाऽसि।
एवंविधेनाहवचेष्टितेन त्वं प्रार्थ्यसे हस्तगता ममैभिः॥ १६॥
किं शच्यां परतो रतिर्धनपतेर्दूरे भवन्तु स्त्रिय— श्चन्द्रान्तःपुरमेतदस्तु परतः को वैरिणीषूत्सवः।
साकं शक्रजितः कलत्रनिवहैः सर्धं च दारैर्मम प्रीत्युल्लासितपाणिपल्लयुगं मन्दोदरी नृत्यति॥ १७॥
२. शोकादिभिर्वैक्लव्यं यथा—(मवीच. ४.५५)
प्राणाः प्रयान्ति परितस्तमसा वृतोऽस्मि मर्मच्छिदो मम रुजः प्रसरन्त्यपूर्वाः।
अक्ष्णोर्मुखेन्दुमुपधेहि गिरं च देहि हा वत्स! मय्यकरुणो सहसैव मा भूः॥ १८॥