गुरोरपीदं धनमाहिताग्नेर्नश्यत् पुरस्तादनुपेक्षणीयम्॥ २७॥
सोऽयं प्रवृत्तिनिवृत्तिनियमरूपः श्रुतिस्मृतिविहित आचारो धर्मः। यथोच्यते—
प्रेत्य चेह च यत् कर्म क्रियमाणं गुणावहम्।
वाङ्मनःकायनिष्पन्नं स धर्म इति कीर्त्यते॥ २८॥
तत्र प्रवर्तमानस्य रत्यादावनतिमानो धर्मश्रृङ्गारः। तत्र—
प्रवृत्तिरूपे यथा—(शाकु. १.२०)
असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः।
सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः॥ २९॥
यथा च निवृत्तिरूपे—(शाकु. ५.२८)