'वाक्प्रधाना' इत्यनेन श्रुतिस्मृत्युक्तविधिवाक्यानामवश्यविधेयतां प्रतिपादयति।
'नृवरप्रयोज्या' इत्यनेन अधिकारिणो निर्दिशति।
'स्त्रीवर्जिता' इत्यनेन अनधिकारिणो निरस्यति।
'संस्कृतापाठ्ययुक्ता' इत्यनेन 'अन्तर्वेद्यां न म्लेच्छितव्यम्' इत्यभिधत्ते॥
अङ्गेषु प्ररोचनया अर्थवादं द्योतयति। वक्तव्यार्थे प्रशंसापरं हि वचः प्ररोचना।
प्रस्तावनया इतिकर्तव्यताक्रमं बोधयति। प्रस्तुतवस्तूपपादनावसरसूचकं हि वाक्यं प्रस्तावना।
वीथ्याऽपि परिप्रश्नोत्तरप्रत्युत्तरादिभिरनुवादविधानात् विपर्ययज्ञानसंशयादीन् अपनयति। उद्घात्यकादीनामङ्गानां प्रवृत्तिपरिपाटी वीथी।
प्रहसनेन तु स्वधर्मान्न चलितव्यमिति नियमयति। स्वधर्मचलितानां हि तापसादीनामुपहासपरं वचः प्रहसनम्।
सेयं भारती वृत्तिः चतुरङ्गाऽपि धर्मश्रृङ्गारस्य अङ्गम्॥
पौरस्त्या प्रवृत्तिः; तस्या एव (पूज्यजना)द्यविरुद्धानुद्धतनेपथ्यरूपत्वात्, कुलवधूविधेयत्वाच्च। यथोच्यते— (रघु. १७.२५)