तस्य चक्रुश्चमत्कारं व्यतीतसमया अपि।
स्मितार्द्रमुकुलोद्भेदाः कदम्बवनराजयः॥ ३४॥
चेष्टाविशेषविन्यासक्रमो वृत्तिः। साऽपि चतुर्धा — भारती,आरभटी, कैशिकी, सात्त्वती चेति।
या वाक्प्रधाना नृवरप्रयोज्या स्त्रीवर्जिता संस्कृतपाठ्यक्ता।
स्वनामधेयैर्भरतैः प्रयोज्या सा भारती नाम भवेत्तु वृत्तिः॥ ३५॥
तस्या अङ्गानि चत्वारि— प्ररोचना, प्रस्तावना, वीथी, प्रहसनमिति। (तत्र)
१. वक्तव्यार्थप्रशंसापरं वचः प्ररोचना; यथा—(मवीच. १.७)