प्राचेतसो मुनिवृषा प्रथमः कवीनां यत् पावनं रघुपतेः प्रणिनाय वृत्तम्।
भक्तस्य तत्र समरन्त ममापि वाचस्ताः सुप्रसन्नवचसः कृतिनो भजन्ताम्॥
२. प्रस्तुतवस्तूपपादनावसरसूचकं वचः प्रस्तावना; यथा—(रत्ना. १.६)
द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात्।
आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः॥ ३७॥
३. उद्घात्यकादीनामङ्गानां प्रवृत्तिर्वीथी। तानि — उद्घात्यकः, कथोद्घातः, प्रयोगातिशयः, प्रवृत्तकः, वल्गित/अवलगितमित्यादीनि त्रयोदश। तेषु — उद्घात्यको यथा—
को विसमो संसारे॰॥ ३८॥ (पृ. ७०८)
एवं कथोद्घातादयोऽपि दशरूपकादेरुदाहार्याः।
४. स्वधर्मचलितानां तापसादीनामुपहासपरं वचः प्रहसनम्; यथा—
श्रमणः श्रावकवध्वा सुरतविधौ दशति नाधरं दत्तम्।