३. अविद्रवः सविद्रवो वा सर्वरसभावसमासो वस्तूत्थापनं; यथा—
राहोश्चन्द्रकलाम्॰॥ ४३॥ (मामा. ५.२८; द्र १०.९७)
४. नानास्त्रयुद्धनियुद्धादिभिः ससंरम्भसंप्रहारः सम्फेटः यथा—
कृष्टा येन शिरोरुहेषु॥ ४४॥ (वेसं. ३.४२; द्र.१४.१३३)
या श्लक्ष्णनेपथ्यविशेषयुक्ता॥ ४५॥ (नाशा. २०.५३; द्र.१२.३४)
तस्या अपि चत्वार्येवाङ्गानि— नर्म, नर्मस्फञ्जः, नर्मस्फोटः, नर्मगर्भ इति।
१. आस्थापितश्रृङ्गारं वचो विचेष्टितं वाऽपि सपरिहासं नर्म। यथा—
वयं तथा नाम यथाऽऽत्थ॥ ४६॥ (मामा. ७.१; द्र.७.९६)