रात्रिर्विचित्रसुरतोचितयामदैर्घ्या चण्डो मरुद् वहति कुङ्कुमपङ्कसाध्यः।
कल्यस्थितिर्द्विगुणतूलपटा किमन्यदर्हन्ति चात्र विततागरुधूपधूमाः॥ ४६॥
पानेऽम्भसोः सुरसनीरसयोर्न भाति स्पर्शक्रियासु तुहिनानलयोर्न चात्र।
नो दुर्भगासुभगयोः परिरम्भणे च नो सेवने च शशिभास्करयोर्विशेषः॥ ४७॥
आश्लेषिणः पृथुतरक्लमशीतशीतामायामिनीं घनमुदो रजनीं युवानः।
ऊर्वोर्मुहुर्वलनबन्धनसन्धिलोलपादान्तसंवलिततूलपटाः स्वपन्ति॥ ४८॥