श्रृङ्गरप्रकाशे षोडशः प्रकाशः
इदानीमुद्दीपनविभावान् व्याख्यास्यामः। तत्र रत्यादि(कम्) उत्पन्नानुत्पन्न— (उत्पन्नानुत्पन्नविभावा)दि त्रिविधम्। तत्र—
रत्यादेः उद्दीपनविभावाः—ऋतूपकरणेतिहासश्रवण—देश—काल—कलाविचार— वयो—वयस्योपदेश—सन्देशोपचार—दैवसम्पदुपकार—स्मरणादयः। तत्र—
ऋतुः षोढा वसन्तो, ग्रीष्मो, वर्षाः, शरत्, हेमन्तः, शिशिर इति। ते च प्रत्येकतश्चतुर्धा सन्धिरुत्पत्तिः प्रौढिरवसितिश्चेति। तत्र—
(१.१ वसन्तः) शिशिरवसन्तसन्धिर्यथा—
यत् पत्रं श्लथमूलनालमनवं पातोन्मुखं वर्तते यद् भङ्गाङ्कुरजन्मभिः क्षितिरुहां स्निग्धोन्नता ग्रन्थयः।