वसन्तप्रौढिर्यथा—(विसा. १. २५)
साम्यं संप्रति सेवते विचकिलं षाण्मासिकैर्मौक्तिकैः कान्तिं कर्षति काञ्चनारकुसुमं माञ्जिष्ठधौतात् पटात्।
हूणीनां कुरुते मधूककुसुमं लावण्यलुण्टाकतां लाटीनाभिनिभं चकास्ति च पतद्वृन्ताग्रतः केसरम्॥ ५॥
सूते/साम्यं संप्रति दुग्धमुग्धसुभगं पुष्पोद्गमं मल्लिका बाह्लीकीदशनव्रणारुणदलैः पुष्पै/पत्रैरशोकोऽञ्चितः/ऽर्चितः।
भृङी्गलङ्घितकोटिकिंशुकमिदं किञ्चिद् विवृन्तायते माञ्जिष्ठैर्मुकुलैश्च पाटलितरोरन्यैव काचिल्लिपिः॥ ६॥
उपसरति वसन्तस्यावसानं मधूकद्रुमकुसुमकडारच्छायविश्रान्तकान्तम्।
ददति मुदमिदानीं भूमयः पामराणामविरलखलधानक्षोदकोलाहलिन्यः॥