स्नानार्द्रमुक्तेष्वनुधूपवासं विन्यस्त—सायन्तनमल्लिकेषु।
कामो वसन्तात्ययमन्दवीर्यः केशेषु लेभे पदमङ्गनानाम्॥ ८॥
(ग्लाना रात्रिर्निदाघे बत विरच)१—यति द्राघिमानं दिनानां२ वध्नन्त्यस्थि प्रगल्भं विफलसुमनसः संप्रतीमे मधूकाः।
किञ्चान्यत् पान्थयूनां हृदयधृतिमुषो भग्नकर्पूरगौरा राजन्ते लूनसस्याः सपदि कृषिभुवां सम्पदो नालशोषाः॥ ९॥
१. पूर्तिरस्मत्कृता २. द्राघिमा नन्दिनीनां जो॰ रा॰
यथा वा—(कामी. पृ. ११० दसं.)
गेहे वाहीकयूनां वहति दमनको मञ्जरीकर्णपूरा— नुन्मादः पामरीणां मरुति मरुवकामोदिनि व्यक्तिमेति।
सद्योभङ्गनुसारस्त्रुतसुरभिसिराशीकरः साहकारः सर्पन्नम्भश्शरावे रचयति च रसो रेचकीचन्द्रकाणि१॥ १०॥