यच्छेदं हलिनीकुचोष्मसु हिमं स्वादु प्रवृत्तं ततः शीतार्तोश्च मधोश्च (कञ्चन मिथःसन्धिः परावर्त्तते)॥ १॥
च्युतसुमनसः कुन्दाः पुष्पोद्गमेष्वलसा द्रुमा मनसि च गिरं ग्रन्थन्तीमे किरन्ति न कोकिलाः।
अथ च सवितुः शीतोल्लासं लुनन्ति मरीचयो न च जरठतामालम्बन्ते क्लमोदयदायिनीम्॥ २॥
वसन्तोत्पत्तिर्यथा—(विक्र. २. ७)
अग्रे स्त्रीनखपाटलं कुरवकं श्यमां द्वयोर्भागयोर् बालाशोकमुपोढरागसुभगं भेदोन्मुखं तिष्ठति।
ईषद्बद्धरजःकणाग्रकपिशा चूते नवा मञ्जरी मुग्धत्वस्य च यौवनस्य च सखे! मध्ये मधुश्रीः स्थिता॥ ३॥
गर्भग्रन्थिषु वीरुधां सुमनसो मध्येऽङ्कुरं पल्लवा वाञ्छामात्रपरिग्रहः पिकवधूकण्ठोदरे पञ्चमः।
किंच त्रीणि जगन्ति जिष्णु दिवसैर्द्वित्रैर्मनोजन्मनो देवस्यापि चिरोज्झितं यदि भवेदभ्यासवश्यं धनु॥ ४॥