२. वागारम्भो यथा—(मामा. ४.३)
चिरादाशातन्तुस्त्रुटतु बीसिनीसूत्रभिदुरो महानाधिर्व्याधिर्निरवधिरिदानीं प्रसरतु।
प्रतिष्ठामव्याजं व्रजतु मयि पारिप्लवधुरा विधिः स्वास्थ्यं धत्तां, भवतु कृतकृत्यश्च मदनः॥ ३॥
समानप्रेमाणं जनमसुलभं प्रार्थितवतो विधौ वामारम्भे मम समुचितैषा परिणतिः।
तथाऽप्यस्मिन् दानश्रवणसमयेऽस्याः प्रविगल— त्प्रभं प्रातश्चन्द्रद्युति वदनमन्तर्दहति माम्॥ ४॥
प्रम्लानोत्पलकोमले सखि ! दृशौ नीलाञ्जनेनाञ्चिते॰॥ ५॥