शृङ्गारप्रकाशे सप्तदशः प्रकाशः
इदानीमनुभावं व्याख्यास्यामः। तत्र विभावैः प्रबुद्धसंस्कारस्य नायकादेर्ये स्मृतीच्छाद्वेषप्रयत्नजन्मानो मनोवाग्बुद्धिशरीरारम्भाः तेऽनुभूयमानत्वाद् रत्यादीना— मनन्तरभवनाच्च अनुभावाः। तत्र—
१. (मन)—आरम्भो यथा—(मामा. १.२१)
तामिन्दुसुन्दरमुखीं सुचिरं विभाव्य चेतः कथं कथमपि व्यपवर्तते मे।
लज्जां विजित्य विनयं विनिवार्य धैर्यमुन्मथ्य मन्थरविवेकमकाण्ड एव॥ १॥
आश्चर्यमुत्पलदृशो वदनामालेन्दु॰॥ २॥