श्रृङ्गारप्रकाशे अष्टादशः प्रकाशः
धर्मश्रृङ्गारः, अर्थश्रृङ्गारः, कामश्रृङ्गारः, मोक्षश्रृङ्गारः इति यदुक्तं१, तदिदानीं व्याख्यायते। तत्र —
धर्मो नाम श्रुतिस्मृतिविहितः आचारः प्रवृत्तिनिवृत्तिनियमनरूपः।
प्रवृत्तिरूपो दशधा, वाङ्मनःकायक्रियाभेदात्। तत्र—
वा(चा)......हितं, प्रियं,.....(सत्य)माप्तं च ब्रूते।
मनसा च आस्तिक्यं, दयाम्, अनीप्सां च भावयति।