कायेन गुरुदेवतोपास्तिं, दानं, आर्तत्राणं च करोति। तत्र
यदि सर्वस्य सर्वत्र नोपकाराय जायते।
तदनेन सुगुप्तेन जिह्वामांसेन को गुणः?॥ १॥
२. प्रियं यथा—(मवीच. ४.३५)
वीरेण ते विजयमाङ्गलिकेन पत्या वृत्रद्रुहः प्रशमितेषु महाभयेषु।
क्षत्रप्रकाण्डगृहिणीबहुमानपूजामूर्जस्वलां त्वयि शची मनसा करोतु॥ २॥
३. सत्यं यथा—(उराच. ५.२२)
एष सांग्रामिको न्याय एष धर्मः सनातनः।