तत्राद्यो दशधा— 'विद्या, भूमिः, पशवः, धान्यं, हिरण्यं, भाण्डम्, उपस्करः, कलत्रं, पुत्रः, मित्रमि'ति।
शेषौ तु कलत्रपुत्रवर्जमष्टधा। तत्र—
विद्या— 'आन्वीक्षिक्यादयः। भूमिः — कृष्या चाकृष्या च। पशवो— हस्त्यश्वगोमहिषादयः। धान्यं 'शमीधान्यं, शूकधान्यं' च। हिरण्यं — सुवर्णरजतादि। भाण्डं — रत्नाजिनवस्त्र—कस्तूरिकादि। उपस्करो — गृहोपवनशयनासनादिः। कलत्रं— रत्यर्थमपत्यार्थं च......। पुत्राः औरसादयः। मित्रं सहजादिः। तेषु—
दत्तं समस्तमपि तिष्ठति यत् तथैव ज्ञातिर्न यद् विभजते, ह्रियते न चोरैः।
जन्मान्तरेऽपि यदुपैति, यदत्र पूज्यं विद्याधनं यदि तदस्ति, धनैः किमन्यैः?॥ १॥
माषैर्मांसलितां तिलैस्तिलकितामुद्धूसरां धूसरैः वल्लैर्वल्लिमतीममीलदवटां वाटैर्वृतां व्रीहिभिः।
कार्पासोद्धुषितामुदारकवनोदारां कुलुत्थाकुला— मस्तोपद्रवकोद्रवामिह महीं दृष्ट्वा जनो नन्दति॥ २॥