भयेषु दुर्गाणि, जलेषु सेतवो, गृहाणि मार्गेषु, रणेषु राक्षसाः।
मनःप्रसादेषु विनोदहेतवो गजा इवान्यत् किमिहास्ति वाहनम्?॥ ३॥
वस्तुं (वप्तुं?) प्रोत्सहमानपामरकरक्षिप्तेक्षुकाण्डैः सह द्वेधाकृत्य नितम्ब! (पावनव)नक्षेत्रं विशन्त्यां हलौ।
हेलोदस्तहलीषमीषदलसं रोमन्थमभ्यस्यतो धन्या धूर्धुरपुङ्गवस्य वहतः पश्यन्ति लीलायितम्॥ ४॥
दुर्लभा यस्य निष्पत्तिर्व्ययो यस्य दिनेदिने।
धर्मकामार्थमूलस्य धान्यस्य कुशलं गृहे॥ ५॥
बुभुक्षितैर्व्याकरणं न भुज्यते पिपासितैः काव्यरसो न पीयते।