एकत्रासनसंस्थितिः परिहृता प्रत्युद्रमाद् दूरत— स्ताम्बूलानयनच्छलेन रसभाश्लेषोऽपि संविघ्नितः।
आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्याऽन्तिके कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः॥ ६॥
कृत्वा वामकरं नितम्बफलके लीलावलन्मध्यया व्यावृत्तस्तनम (ञ्चितास्यकमलं कृ—)त्वा तया मां प्रति।
प्रा(तर्मुग्ध—)नवेन्द्रनीलमणिमन्मुक्तावीभ्रमाः सप्रेमप्रहिताः स्मरज्वरमुचो द्वित्राः कटाक्षच्छटाः॥ ७॥
देशैरन्तरिता शतैश्च सरितामुर्वीभृतां काननै— र्यत्नेनापि न याति लोचनपथं कान्तेति जानन्नपि।
उद्ग्रीवश्चरणार्धरुद्धवसुधः कृत्वाऽश्रुपूर्णां दृशं तामाशां पथिकस्तथाऽपि किमपि ध्यायन् मुहुर्वीक्षते॥ ८॥
(एते च प्रत्येकं) द्वादशप्रकारा भवन्ति। तत्र
(१) (मन)—आरम्भाः— भावः, हावः, हेला, शोभा, कान्तिः, उद्दीप्तिः, माधुर्यं, धैर्यं, प्रागल्भ्यम्, औदार्यं, स्थैर्यं, गाम्भीर्यमिति।