(सूच्यम्—(मन)आरम्भस्य 'हावतः' वागारम्भस्य 'संदेशं' यावद् ग्रन्थः खण्डितोऽत्र।—)
कालिन्दीतटभूमयोऽपि तव रे! नो यान्ति चिन्तास्पदम्॥ ९॥
८. तदुक्तमित्यतदुक्तमित्यतिदेशः। यथा—(कुसं. ६.७८)
स ते दुहितरं साक्षात् साक्षी विश्वस्य कर्मणाम्।
वृणुते वरदः शम्भुरस्मत्संक्रामितैः पदैः॥ १०॥
९. सोऽयमहमित्यादिर्निर्देशः। यथा—(कुसं. ६.६३)
एते वयममी दाराः कन्येयं कुलजीवितम्।
ब्रूत येनात्र वः कृत्यमनास्था बाह्यवस्तुषु॥ ११॥