सा चतुर्धा— पाञ्चाल्यादिभेदात्।
१. पञ्चालादिषु भवा पाञ्चाली। यदनतिदीर्घसमासम् अनतिस्फुटबन्धमुपचारवृत्तिमत् पादानुप्रासप्रायं योगरूढिमद् वचः, सा पाञ्चाली।
धीरास्त एव धवलायतलोचनानां तारुण्यदर्पघनपीनपयोधराणाम् ।
क्षामोदरोपरिलसत्त्रिवलीलतानां दृष्ट्वाऽऽकृतिं विकृतिमेति मनो न येषाम्॥ १५॥
विलासमसृणोल्लसन्मुसललोलदोःकन्दली॰॥ १६॥ (पृ.४५७)
उपचारवृत्तिमती यथा—(रत्ना २.१३)
परिम्लानं पीनस्तनघनसङ्गदुभयतः॰॥ १७॥ (द्र. ७.१०७)
पादानुप्रासवती यथा—(काव्याद. १.५६)