१०. शिक्षाहेतुरुपदेशः। यथा—(शाकु. ४.१८)
शुश्रूषस्व गुरून्, कुरु प्रियसखीकृत्यं सपत्नीजने भर्तुर्विप्रकृताऽपि रोषणतया मा स्म प्रतीपं गमः।
भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः॥ १२॥
११. अन्यार्थकथनमपदेशः। यथा—
आसाइअं अव्णाएण॰॥ १३॥ (पृ. १२४८)
१२. व्याजान्तरेण व्यपदेशः। यथा—
महुएहि किं वि बालअं (पंथिअ)॥ १४॥ (गास. ८७७, वज्जा ४९१ पृ.३७०) इति वागारम्भा द्वादश।
(३.१. रीतिः) वचनविन्यासक्रमो रीतिः।