भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 51 to 60 of 719 verses
एतस्मिन् घनचन्द्रनार्द्रवपुषो निद्राकषायेक्षणा लीढा/लीला—लोलमृदूल्लसद्भुजलतं व्याजृम्भमाणा मुहुः।

निर्गच्छन्ति शनैरहःपरिणतौ सुप्‍ता लतामन्दिरात् स्वेदाम्भःकणदन्तुरस्तनतटाभोगाः कुरङ्गीदृशः॥ १४॥

१. रेचकी श्रृङ्गी पिचकारीपदवाच्या हिन्द्याम्। चन्द्रकाणि चक्राकाराणि चिह्नानि। रसो वर्णद्रव्यचित्रितो द्रवः रंगपदवाच्यः।

ग्रीष्मावसितिर्यथा—

शुचे/शुचौ तप्‍ताङ्गीनां बहुलमकरन्दद्रवमुचः कदम्बप्रालम्बाः स्तनपरिसरे पक्ष्मलदृशाम्।

हठाल्लूनोष्माणः कमपि महिमानं विदधते जलक्रीडोत्तीर्णाप्रियतमभुजाबद्ध—शिशिराः॥ १५॥

यथा वा—(रघु. १६. ४६)

दिनेदिने शैवलवन्त्यधस्तात् सोपानपर्वाणि विमुञ्चदम्भः।

उद्दण्डपद्मं गृहगीर्धिकाणां नारिनितम्बद्वयसं बभूव॥ १६॥

(१.३ वर्षा)

Showing 51 to 60 of 719 verses