भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 71 to 80 of 719 verses
दूरोदञ्चित—पक्व—तालसरलैः ष‌ड्जस्वरस्वादुभिः संप्रत्युन्मदकेकिनां कलरवैरासूत्रितस्वागताः।

सद्यस्तापभरं हरन्ति भरितं प्रह्लादयन्तो हरे— रेकाकारनिवृत्तपांसुपटलस्वच्छाः समीरागमाः॥ २०॥

वर्षाप्रौढिर्यथा—

एतास्ताः सुरचापचित्रवपुषो विद्युल्लतालाञ्छिताः कान्तारद्विपकान्तिकान्तपृथुला पीना घनानां घटाः।

यद्गर्जामुरजाः शिखीण्डिवयसां दिङ्‌मण्डलीमञ्चके— षूद्दण्डाण्डजचण्डताण्डवरसैः कुर्वन्ति नृत्तोत्सवम्॥ २१॥

यथा वा—

सञ्छन्ने जलवामनैर्जलधरैर्व्योम्नि प्रसुप्‍ते जने देवे गर्जति दिङ्‍मुखेषु चरति स्वैरं कदम्बानिले।

उत्कण्ठायति च प्रवर्षति घने दाशान् धरा मूर्च्छति प्रोन्मथ्नन्ति मनांसि मांसलमिलद्दीर्घान्धकाराः क्षपाः॥ २२॥

वर्षावसितिर्यथा—

मूले लोलकरीरकन्दलघनाः काण्डे ततः पाण्डवः किञ्चिन्मेदुरमण्डले परुषि च प्रौढास्थिरूढत्वचः।

Showing 71 to 80 of 719 verses