स्वापहेतुरनुपासितोऽन्यया रामबाहुरुपधानमेष ते॥ १६॥
अनेकजानिः साधारणः; यथा—(शाकु. ६.१२)
एकैकमत्र दिवसे दिवसे मदीयं नामाक्षरं गणय गच्छसि यावदन्तम्।
तावत् प्रिये ! मदवरोधगृहप्रवेशं नेता जनस्तव समीपमुपैष्यतीति॥ १७॥
अथैषामेव त्रिधा व्यतिकरे चतुरुत्तरं शतम्। तत्र—
धीरोदात्तः सात्त्विकः; स तूत्तम एव; अनुकूलदक्षिणाऽसाधारणसाधारणभेद— व्यतिकरादष्टप्रकारः। तत्र
आतङ्कश्रमसाध्वसव्यतिकरोत्कम्पः कथं सहृताम्॥ १८॥