भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 91 to 100 of 1849 verses
विचित्रमणिसङ्करस्फुरदुरुप्रभाभासुरं निमेषविमुखी दृशं मम मुहुः समापादयन्।

कुरङ्गतिलकानने तव तदेणचर्मांशुकं करिष्यति पयोधरे सुरधनुर्विलासोदयम्॥

६. धीरोदात्तानुकूलसाधारणो यथा—(शाकु. ३.१७)

परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे।

समुद्ररशना चोर्वी सखी च युवयोरियम्॥ २३॥

७. धीरोदात्तदक्षिणासाधारणो यथा—

देवि ! त्वद्वदनारविन्दसुहृदामेषां सरोजन्मनां पश्‍य व्योमनि लोहितायति रवावेषा दशा वर्तते।

इत्थं सङ्कुचदम्बुजानुकरणव्योजपनीताञ्जलेः शम्भोर्वञ्चितपार्वतीकमुचितं सन्ध्यार्चितं पातु वः॥ २४॥

८. धीरोदात्तदक्षिणसाधारणो यथा—(विक्र. ३.१३)

अनेन कल्याणि ! मृणालकोमलं व्रतेन गात्रं ग्लपयस्यकारणम्।

Showing 91 to 100 of 1849 verses