पार्वती तदुपयोगसम्भवां विक्रियां गतवती मनोहराम्।
अप्रतर्क्यविधियोगनिर्मितामाम्रतेव सहकारतां ययौ॥ २६॥
अनुबन्धो यथा—(कुसं. ८.८०)
घूर्णमाननयनं स्खलत्पदं स्वेदबिन्दुम—दकारणस्मितम्।
आननेन न तु तावदीश्वरश्चक्षुषा चिरमुमामुखं पपौ॥ २७॥
संपर्को यथा—(किराता. ९.७३)
शीधुपानविधुरेषु वधूनां निघ्नतामुपगतेषु वपुष्षु।
ईहितं रतिरसाहितभावं वीतलक्ष्यमपि कामिषु रेजे॥ २८॥
अनुगमो यथा—(किराता. ९.७७)
आमोदवासितचलाधरपल्लवेषु निद्राकषायितविपाटललोचनेषु।