आत्मोत्कर्षसम्भावनया परावज्ञानं गर्वः।
यः प्रापत् प्रसभं पुराऽमृतहृतौ वह्निप्रभाभासुरैः पक्षालीकलिता परप्रहरणैर्धेर्योचितं मण्डनम्।
तेनास्मद्भुजपञ्जरेऽत्र विफलोत्फालान् मुहुः कुर्वता व्यालोलेन गरुत्मताऽपि सुचिरं क्रीडाशकुन्तायितम्॥ २१॥
अस्त्रज्वालावलीढप्रतिबलजलधेंरन्तरौर्वायमाणे सेनानाथे स्थितेऽस्मिन् मम पितरि गुरौ सर्वधन्वीश्वराणाम्।
कर्णालं सम्भ्रमेण, व्रज कृप! समरं, मुञ्च हार्दिक्य! शङ्कां ताते चापद्वितीये वहति रणधुरं को भयस्यावकाशः ?॥ २२॥
प्रकर्षो यथा—(वेसं. ३.४६)
धृतायुधो यावदहं तावदन्यैः किमायुधैः।