अभ्युष्णात् सघृतादन्नादच्छिद्राद् वाससः सितात्।
अपरप्रेष्यभावाच्च भूरि वाञ्छन् विनश्यति॥ १५॥
हर्षादिभिर्मनोविकासविशेषो हासः।
एतत् किं शिरसि स्थितं मम पितुः? खण्डः सुधादीधितेः ललाटं किमिदं? विलोचनमिदं; हस्तेऽस्य किं? पन्नगः।
इत्थं क्रौञ्चरिपोः क्रमादुपगते दिग्वाससः शूलिनः प्रश्ने वामकरोपरोधसुभगं देव्याः स्मितं पातु वः॥ १६॥
मातर्जीव! किमेतदञ्जलिगतं तातेन गोपाय्यते? वत्स! स्वादु फलं; प्रयच्छति न मे; गत्वा गृहाण स्वयम्।