भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 51 to 60 of 481 verses
४६. अश्रुणः शोकक्रोधहर्षधूमाञ्जनजृम्भणभयानिमेषप्रेक्षणशीतरोगादय आलम्बन— विभावाः। कार्यकारणानुबन्धप्रबन्धादय उद्दीपनविभावाः। नेत्रसम्मार्जनबाष्पमोक्ष— त्रिविधरोदनादयोऽनुभावाः। तत्रोत्फुल्लकपोलाङ्गनिमीलितास्रमपर्याप्‍तमुक्तास्रम् अस्वस्थगात्रं स्वनवद्गतचेष्टं संभ्रमिपातविचेष्टितविलापदुःखजं प्रस्फुरितोष्ठकपोलं सनिःश्वासं सशिरःकम्पभ्रूकटाक्षादयो रोदनं चानुभावाः। भयनिर्वेदग्लानिश्रमदैन्य मोहौत्सुक्य त्रासवितर्कस्वेदस्वरभेदस्तम्भरोमाञ्चवेपथुवैवर्ण्यादयो व्यभिचारिणः॥

४७. (मोहस्य/स्‍नेहस्य)१ अवलोकनावस्थावधारणव्यसनाभिघातभयावेगवैरस्मरणादय आलम्बनविभावाः। २संस्तुतप्रदेशदर्शनेष्टगुणाकर्णनर्त्तुमाल्यानुलेपनोपनतिप्रभृतयः उद्दीपनविभावाः। निश्चैतन्यभ्रमणपतनघूर्णनादर्शनादयोऽनुभावाः। ग्लानिप्रलयादयो व्यभिचारिणः॥)

४८. प्रलयस्य मूर्च्छाश्रमाभिघातनिद्रामोहमदादय आलम्बनविभावाः। श्रमादि— कारणान्येवोद्दीपनविभावः। निश्चेष्टतादयोऽनुभावाः। ग्लानिजडतास्तम्भवैवर्ण्यादयो व्यभिचारिणः॥

४९. जडतायाः इष्टानिष्टश्रवणदर्शनव्याध्यादय आलम्बनविभावाः। तद्रामणीय— कोद्वेजनीय(उद्दीप)नविभावाः कार्याप्रतिपत्त्यकथनाभाषणतूष्णीम्भावानिमेषनिरीक्षणा— दयोऽनुभावाः। निर्वेदग्लानिश्रमदैन्यमोहविषादनिद्रास्तम्भ वैवर्ण्यादयो व्यभिचारिणः॥

१. द्र. सरस्वतीकण्ठाभरणे। २. राघवपाठस्तु—प्रकृतधर्माधर्मक्रोधाशावज्ञादयः इति। मुद्रितस्तु पाठो जोशेरपठितः। जोशेरेण मोहो द्विः प्रदत्तः। स्‍नेहस्तु स्यात्।

५०. निर्वेदस्य अधिक्षेपक्रोधताडनेष्टजनवियोगवैराग्यादय आलम्बनविभावाः। स स(?) x x x x x रताविभावन शास्त्राभ्यासतत्त्वज्ञानादय उद्दीपनविभावाः। रुदितनिःश्वसि(त) x x x x जुगुप्साश्रमजडतानिद्रास्तम्भशमादयो व्यभिचारिणः॥

५१. शमस्य तत्त्वज्ञानादय आलम्बनविभावाः। योगाभ्यासादय उद्दीपनविभावाः। परं ब्रह्मोपास्तिमतिरोमाञ्चहर्षधृत्यादयो व्यभिचारिणः, इति॥

उक्तः सोऽयं विभावानुभावसञ्चारिसङ्करः।

क्रमेण सर्वभावानां शृङ्गारेषु चतुर्ष्वपि॥ १॥

व्यक्‍तः स तैर्विभावाद्यैः स्थायी भावो रसः स्मृतः।

Showing 51 to 60 of 481 verses