भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 41 to 50 of 481 verses
३८. उन्मादस्य इष्टजनवियोगविभवनाशव्यसनाभिघातालाभापथ्यसेवनादय उद्दीपनविभावाः। अनिमित्तहसितरुदितोत्क्रुष्टप्रलयगर्वरत्यादयो व्यभिचारिणः॥

३९. श्रमस्य अतिव्यायामातिभारोत्क्षेपणादय आलम्बनविभावाः। जृम्भणाङ्गमर्दन— मन्दपदोत्क्षेपणालस्यादयोऽनुभावाः१। निर्वेदग्लानिदैन्यचिन्ता व्यभिचारिणः॥

४०. शोकस्य शापक्लेशविनिपातेष्टजनवियोगविभवनाशवधबन्धनदुःखानुभव— विद्रवोपद्रवादय आलम्बनविभावाः। अश्रुपातालस्यविलपितस्त्रस्तगात्रताभूमि— पाताक्रन्दितवेष्टितदीर्घनिःश्वसितमुखशोषमदादयोऽनुभावाः। स्तम्भवेपथुवैवर्ण्या— श्रुस्वरभेदादयो व्यभिचारिणः॥

४१. विषादस्य आरम्भानिस्तरणो उपायचिन्तनोत्साहविघातवैमनस्यालस्यादयो—ऽनुभावाः। स्तम्भस्वेदगद्गदवैवर्ण्यवेपथुप्रभृतयो व्यभिचारिणः॥

४२. वेवर्ण्यस्य शीतक्रोधादय आलम्बनविभावाः। ॰॰कारणान्येवोद्दीपनविभावाः। नयनमुखरागवृत्ति वैमनस्यालस्यादयोऽनुभावाः। ॰॰व्यभिचारिणः॥

४३. दैन्यस्य मनस्तापदौर्गत्यादय आलम्बनविभावाः। सर्वोपायभ्रंशोपभेदजुगुप्सानिर्वेद— ग्लानिचिन्तामोहजडताविषादनिद्रास्तम्भगद्गदवेपथुवैवर्ण्याश्रुप्रभृतयो व्यभिचारिणः॥

१. ॰लस्या॰ = ॰लब्धा(?)॰ रा.। *२९. 'शङ्का, ३०. त्रासः, ३१. वेपथुः, ३२. व्रीडा, ३३. अबहित्था, ३४ स्तम्भः, ३५. ग्लानिः' इत्येतेषां विभावादीनां वर्णनं मातृकासु त्रुटितम्।

४४. स्वरभेदस्य कारणान्येवोद्दीपनविभावाः। तारमन्द्रमध्यघर्घरगद्गदविस्वर— स्वनादयोऽनुभावाः। हा . . .(व्यभिचारिणः)॥

४५. आवेगस्य विद्युदुल्कानिर्घातपतनचन्द्रसूर्योपरागकेतुदर्शनभ्रमणवातवर्षा— निकुञ्जरोद्भ्रमणप्रियाप्रियश्रवणदुस्स्वप्‍नदुर्निमित्तदर्शनव्यसनाभिघातादय आलम्बन— विभावाः। उक्तविषयकीर्तनानुभवनसम्प्रधारणादय उद्दीपनविभावाः।

सर्वाङ्गस्रस्ततावकुण्ठनाक्षिमर्दनत्वरितगमनाङ्गपीडनप्रधावनच्छन्नाश्रयणधूमा— कुलनेत्रताङ्गविधूननत्वरितापसरणपश्चादवलोकनाभ्युत्थानालिङ्गनभूमिशयन— परिदेवितविलापाक्रन्दितदेवतानुस्मरणादयोऽनुभावाः। शोकभयविस्मयशङ्का— श्रमचिन्तामोहवितर्कस्तम्भस्वेदवेपथुवैवर्ण्याश्रुप्रलयादयो व्यभिचारिणः॥

Showing 41 to 50 of 481 verses