भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 21 to 30 of 481 verses
१. ॰ननु॰ = ॰नु॰ रा.। २. गर्वस्य रा., स्वेदस्य जो.। ३. जोशेरसंस्करणे मोहो द्विर्निरूपितः। प्रथमं मदचिन्तयोर्मध्ये द्वितीयं वारं च वितर्कक्रोधयोर्मध्ये। द्र. पृ. ७९९। *१०. उत्कण्ठा नोपलभ्यते।

१२. स्मृतेः स्वास्थ्यापररात्रप्रबोधसमानदर्शनोदाहरणदैवादय आलम्बनविभावाः। पूर्वानुभूतविषयज्ञानादय उद्दीपनविभावाः। शिरःकम्पनभ्रूसमुन्नमनशून्यावलोकना— ङ्गुलिविभङ्गादयोऽनुभावाः। हासशोकक्रोधोत्साहभयजुगुप्साविषादौत्सुक्यासूयोग्रता— गर्वत्रासवितर्करतिस्तम्भस्वेदरोमाञ्च वेपथुवैवर्ण्याश्रुस्वरभेदादयो व्यभिचारिणः॥

१३. मतेः शास्त्रोपदेशमन्त्राद्यैरर्थनिर्धारणादय आलम्बनविभावाः। विद्यावृद्धसंयोगाध्ययना— ध्यापनतद्‌विद्यावित्सम्भाषणादय उद्दीपनविभावाः। तत्त्वाभिनिवेशदेशकाला— नुसारणादयोऽनुभावाः। ग्रहणशक्तिविकासादयः सर्वे व्यभिचारिणः॥

१४. वितर्कस्य सन्देहविमर्शविप्रतियत्त्यादय आलम्बनविभावाः। समानानेक— धर्मोपपत्तिप्रतिपत्तिविशेषादय उद्दीपनविभावाः भ्रूविक्षेपमन्त्रसंग्रहणादयोऽनुभावाः। निर्वेदग्लानिशङ्काश्रमविषादविस्मयदैन्यचिन्तामोहस्मृतिमतिव्रीडाऽऽवेगजडतास्तम्भ— स्वेदादयो व्यभिचारिणः॥

१५. उत्साहस्य विस्मयासंमोहाविषादाध्यवसायविशयसाहसादय आलम्बनविभावाः। विनयबलपराक्रमदेशकालशक्तिसम्पत्प्रतापादय उद्दीपनविभावाः। गाम्भीर्यादयोऽ— नुभावाः। क्रोधासूयामर्षचिन्तास्मृतिगर्वावेगरोमाञ्चस्वेदोग्रतौत्सुक्यादयो व्यभिचारिणः॥

१६. क्रोधस्य आक्षेपानृतवचनोपघातवाक्पारुष्याभिद्रोहमात्सर्यादय आलम्बन— विभावाः। ताडनपीडनपाटनभेदच्छेद्यप्रहरणादय उद्दीपनविभावाः। नयनरागभ्रुकुटिदन्तोष्ठपीडनगण्डस्फुरणहस्तनिष्पेषादयोऽनुभावाः। संमोहोत्साहा— मर्षवेगचपलतागद्गदादयो व्यभिचारिणः॥

१७. अमर्षस्य विद्यैश्वर्यधनबलाधिकाराधिकैरधिक्षेपावमानादय आलम्बनविभावाः। स्वावस्थालोकनमधुरालापश्रवणकामिनीप्रोत्साहनादय उद्दीपनविभावाः। शिरःकम्पाधोमुख्यध्यानाध्यवसायोपायसहायान्वेषणादयोऽनुभावाः। क्रोधासूया— तापोग्रताऽऽवेगवैवर्ण्यास्रादयो व्यभिचारिणः॥

१८. असूयायाः परैश्वर्यसौभाग्यमेधाविद्यादय आलम्बनविभावाः। दोषख्यापनगुणो— पघाताच्चक्षुःप्रणिधानाधोमुख्यभ्रुकुटिक्रियादय उद्दीपनविभावाः। अवज्ञापराध— द्वेषवेषकुत्सनादयोऽनुभावाः। हास्यक्रोधाज्ञोपहसितस्वरभेदादयो व्यभिचारिणः॥

१९. ईर्ष्यायाः समानकुलशीलरूपविद्यावयोविभवबलपराक्रमेषु सपत्‍नीषु च क्रमेण प्रीतिप्रासादस्थानदानमानादय आलम्बनविभावाः। अमर्षादवलोकनादय उद्दीपन— विभावाः। मन्युव्यलीकविप्रियप्रणयकलहोपालम्भादयोऽनुभावाः। क्रोधोत्साह— विस्मयवितर्कदैन्यजुगुप्सामोहनिर्वेदासूयामर्षवेपथुवैवर्ण्याश्रुस्वेदगद्गदादयो व्यभिचारिणः॥

२०. उग्रतायाः चौर्याभिग्रहनृपापराधासम्बद्धप्रलापादय आलम्बनविभावाः। द्रव्यापहारभाराभिनिवेशाऽसहिष्णुतादय उद्दीपनविभावाः। ताडनपीडनवधबन्ध— भर्त्सनास्यरागादयोऽनुभावाः। क्रोधोत्साहविस्मयजुगुप्साऽसूयास्मृतिमतिमोह— चपलताहर्षामर्षमदावेगौत्सुक्यवैवर्ण्या श्रुगद्‍गदादयो व्यभिचारिणः॥