आत्मनो विक्षोभजन्मा अन्तश्शरीरोच्छ्वासो रोमाञ्चः। तस्य जन्मनि यथा—(शाकु. ३.१२)
उन्नमितैकभ्रूलतमाननमस्याः पदानि रचयन्त्याः।
कण्टकितेन प्रथयति मय्यनुरागं कपोलेन॥ ६॥
सा यूनि तस्मिन्नभिलाषबन्धं शशाक शालीनतया न वक्तुम्।
रोमाञ्चलक्ष्येण स गात्रयष्टिं भित्त्वा निराक्रमदरालकेश्याः॥ ७॥
प्रकर्षे यथा—(कुसं. ३.६८)
विवृण्वती शैलसुताऽपि भावमङ्गैः क्वचित्/स्फुरद्बालकदम्बकल्पैः।
साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन॥