धृतिमाततान तनयस्य हरेस्तपसेऽधिवस्तुमचलामचलः॥ ११॥
विषयपतिरलब्धो धेनुभिर्धातुपूतं कतिचिदभिमतायां सीम्नि सीरा वहन्ति।
शिथिलयति न भार्यां चातिथेयीं सपर्या— मिति सुकृतमनेन व्यञ्जितं नः फलेन॥ १२॥ (?)
प्रकर्षे यथा—(रत्ना. ४. १९)
यातो विक्रमबाहुरात्मसमतां प्राप्तेयमुर्वीतले सारं सागरिका ससागरमहीप्राप्त्येकहेतुः प्रिया।
देवी प्रीतिमुपागता च भगिनीलाभाज्जिताः कोसलाः किं नास्ति त्वयि सत्यमात्यवृषभे यस्मिन् करोमि स्पृहाम्॥ १३॥
निकामं क्षामाङ्गी सरसकदलीगर्भसुभगा कलाशेषा मूर्तिश्शशिन इव नेत्रोत्सवकरी।
अवस्थामापन्ना मदनदहनोद्दाहविधुरा— मियं नः कल्याणी रमयति मनो मोहयति च॥ १४॥