भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 61 to 70 of 841 verses
गौर्येत्थं गदिते गुहे विघटयत्याकृष्य सन्ध्याञ्जलिं शम्भोर्भिन्नसमाधिरुद्धरभसो हासोद्‍गमः पातु वः॥ १७॥

प्रकर्षो यथा—

स एष भुवनत्रयप्रथितसंयमः शङ्करो बिभर्ति वपुषाऽधुना विरहकातरः कामिनीम्।

अनेन किल निर्जिता वयमिति प्रियायाः करं करेण परिताडयन् जयति जातहासः स्मरः॥ १८॥

संपर्को यथा—(खण्डयशास्तिः ३०)

वपुर्दलनसम्भ्रमात् स्वनखरं प्रन/विष्टे रिपौ क्‍व यात इति विस्मयात् प्रहितलोचनः सर्वतः।

वृथेति करधूतिभिर्निपतितं पुनर्दानवं निरीक्ष्य भुवि रेणुवज्जयति जातहासो हरिः॥ १९॥

अनुगमो यथा—(रत्‍ना. १.२)

औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना ह्निया तैस्तैर्बन्धुवधूजनस्य वचनैर्नीताऽऽभिमुख्यं पुनः।

पश्‍यन्ती परमात्तसाध्वसरसा गौरी नवे सङ्गमे संरोहत्पुलका हरेण हसताऽऽश्लिष्टा शिवायास्तु वः॥ २०॥

Showing 61 to 70 of 841 verses