भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 61 to 70 of 1849 verses
श्रुत्वा ते परिवारवारवनितागीतानि भृङ्गाङ्गना लीयन्ते कमलोदरेषु शनकैः सञ्जातलज्जा इव॥ १३॥

प्रातिकूलिकप्रवृत्तिः शठः; यथा—(मुरा. १.१)

धन्या केयं स्थिता ते शिरसि ? शशिकला; किं नु नामैतदस्याः ? नामैवास्यास्तदेतत् परिचितमपि ते विस्मृतं कस्य हेतोः ?।

नारीं पृच्छामि नेन्दुं कथयतु विजया न प्रमाणं यदीन्दु— र्देव्या निह्नोतुमिच्छोरिति सुरसरितं शाठ्‍यमव्यात् प्रभोर्वः॥ १४॥

निरपत्रपप्रवृत्तिर्धृष्टः; यथा—

वाचो भामिनि ! किं तवाद्य परुषाः सुभ्रु ! भ्रुवोर्विभ्रमो विश्रान्तः कुत एष लोलनयने ! किं लोहिते लोचने।

स्वेदः किं नु घनस्तनि ! स्तनतटे मुक्ताफलालीतुलां धत्ते, मुञ्च रुषं ममात्र दयिते ! लेशोऽपि नास्त्यागसः॥ १५॥

(४. परिग्रहात्)

अनन्यजानिरसाधारणः; यथा—(उराच. १.३७)

आविवाहसमयाद् गृहे वने शैशवे तदनु यौवने पुनः।

Showing 61 to 70 of 1849 verses