२. धीरोदात्तदक्षिणो यथा—(शाकु. ६.५)
रम्यं द्वेष्टि, यथा पुरा प्रकृतिभिर्न प्रत्यहं सेव्यते शय्योपान्तविवर्तनैर्विगमयत्युन्निद एव क्षपाः।
दाक्षिण्येन ददाति वाचमुचितामन्तःपुरेभ्यो यदा गोत्रेषु स्खलतिस्तदा भवति च व्रीडावनम्रश्चिरम्॥ १९॥
३. धीरोदात्तासाधारणो यथा—(मवीच. २.२७)
मुनिरयमथ वीरस्तादृशस्तत्प्रियं मे विरमतु परिकम्पः कातरे ! क्षत्रियाऽसि।
जगति विततकीर्त्तेर्दर्पकण्डूलदोष्णः परिसरणसमर्थो राघवः क्षत्रियोऽहम्॥ २०॥
४. धीरोदात्तसाधारणो यथा—(रघु. १.६५)
किन्तु वध्वां तवैतस्यामदृष्टसदृशप्रजम्।
न मामवति सद्वीपा रत्नसूरपि मोदिनी॥ २१॥
५. धीरोदात्तानुकूलासाधारणो यथा—(उरा. २.१४)