अग्रे सूच्छ्रितपत्रषण्डगहनाः संप्रत्यमी प्रावृषि क्षीणायां हरितो हरन्ति हलिनां चक्षूंषि बालेक्षवः॥ २३॥
विपाण्डुभिर्ग्लानतया पयोधरैशच्युताचिराभागुणहेमदामभिः।
इयं कदम्बानिलभर्तुरत्यये न दिग्वधूनां कृशता न राजते॥ २४॥
उन्मग्नवञ्जुलहतानि वनापगानामाश्यानशैवलतरङ्गितसैकतानि।
निम्नावशेषसलिलानि मनो हरन्ति रोधांसि हंसपदमुद्रितकर्दमानि॥ २५॥
नद्यो वहन्ति कुटिलक्रमयुक्तशुक्तिरेखाङ्कबालपुलिनोदरसुप्तकृष्टाः/कूर्माः।