तीव्रं रविस्तपति नीच इवाचिरढ्यः श्रृङ्गं रुरुस्त्यजति मित्रमिवाकृतज्ञः।
तोयं प्रसीदति मुनेरिव चित्तवृत्तिः कामं दरिद्र इव शोषमुपैति पङ्कः॥ ३०॥
केदार एव कलमाः परिणामनग्राः प्राचीनमामलकमर्घति पाकनीलम्।
ऊर्वारुकं स्फुटति निर्गतगर्भगन्धमम्लीभवन्ति च जरत्त्रीपुषीफलानि॥ ३१॥
तिक्ताधिवासान्यधुना पुराणमाञ्जिष्ठचेलच्छविधूसराणि।
अलम्बुसायाः कुसुमानि सीम्नि लोलन्ति मन्दं मरुदाहृतानि॥ ३२॥